वांछित मन्त्र चुनें

यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ । यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥

अंग्रेज़ी लिप्यंतरण

yad vāsi rocane divaḥ samudrasyādhi viṣṭapi | yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi ||

पद पाठ

यत् । वा॒ । असि॑ । रो॒च॒ने । दि॒वः । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । यत् । पार्थि॑वे । सद॑ने । वृ॒त्र॒ह॒न्ऽत॒म॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒हि॒ ॥ ८.९७.५

ऋग्वेद » मण्डल:8» सूक्त:97» मन्त्र:5 | अष्टक:6» अध्याय:6» वर्ग:36» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:5